MATENDRA

MATENDRA

एक ऐसा प्राणी जो समय के साथ विलीन हो रहा है , अनंत में…

अगं गलितं पलितं मुण्डं दशनविहीनं जातं तुंडम् ।

वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ।

भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढ़मते ।6

बालस्तावत्क्रीडा सक्तस्तरुणस्तावत्तरुणीरक्त: ।

वृद्धस्तावच्चिन्तामग्न: पारे ब्रह्माणि कोऽपि न लग्न: । भज. ।।7।।

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् ।

इह संसारे खलु दुस्तारे कृपयापारे पाहि मुरारे । भज. ।।8।।

पुनरपि रजनी पुनरपि दिवस: पुनरपि पक्ष: पुनरपि मास: ।

पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम् । भज. ।।9।।

वयसि गते क: कामविकार: शुष्के नीरे क: कासार: ।

नष्टे द्रव्ये क: परिवारो ज्ञाते तत्वे क: संसार: । भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढ़मते । ।।10।।